Thursday, July 2, 2015

अहं प्रभाते उत्तिष्ठामि ।





अहम्‌ प्रभाते उत्तिष्ठामि मातापितरौ प्रणमामि । 
देवान्‌ भक्तवरेण्यान्‌ नत्वा पठने मतिं विधास्यामि ॥
विना विलम्बं शालां गच्छन्‌ पाठ्यांशान्‌ अवगच्छामि । 
सर्वान्‌ विषयान्‌ सम्यगधीत्य बुद्धिविशदतां प्राप्नोमि ॥
शिष्टाचारान्‌ साधुविचारान्‌ वृद्धिकरान्‌ आकलयामि । 
विद्याभ्यासाचारविचारैः सर्वश्रेष्ठतां विन्दामि ॥ 
-  जनार्दन हेग्डे



No comments:

Post a Comment