Sunday, June 10, 2018

सुरससुबोधा विश्वमनोज्ञा





नै व क्लिष्टा न च कठिना

सुरससुबोधा विश्वमनोज्ञा ललिता हॄद्या रमणीया।
अमृतवाणी संस्कॄतभाषा नैव क्लिष्टा न च कठिना ॥
कविकोकिल-वाल्मीकि-विरचिता रामायण-रमणीय-कथा ।
अतीवसरला मधुरमञ्‌जुला नै व क्लिष्टा न च कठिना ॥
व्यासविरचिता गणेशलिखिता महाभारते पुण्यकथा ।
कौरव-पाण्डव-सङ्‌गरमथिता नै व क्लिष्टा न च कठिना ॥ 
कुरुक्षेत्र-समराङ्‌गण-गीता विश्वनदिता भगवद्गीता ।
अमृतमधुरा कर्मदीपिका नै व क्लिष्टा न च कठिना ॥
कविकुलगुरु-नवरसोन्मेषजा ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका नैव क्लिष्टा न च कठिना ॥ 
- श्री वसन्त गाङ्‌गीलः

No comments:

Post a Comment