अहम् प्रभाते उत्तिष्ठामि मातापितरौ प्रणमामि । | ||
देवान् भक्तवरेण्यान् नत्वा पठने मतिं विधास्यामि ॥ | ||
विना विलम्बं शालां गच्छन् पाठ्यांशान् अवगच्छामि । | ||
सर्वान् विषयान् सम्यगधीत्य बुद्धिविशदतां प्राप्नोमि ॥ | ||
शिष्टाचारान् साधुविचारान् वृद्धिकरान् आकलयामि । | ||
विद्याभ्यासाचारविचारैः सर्वश्रेष्ठतां विन्दामि ॥ | ||
- जनार्दन हेग्डे |
No comments:
Post a Comment