नै व क्लिष्टा न च कठिना
सुरससुबोधा विश्वमनोज्ञा ललिता हॄद्या रमणीया। | ||
अमृतवाणी संस्कॄतभाषा नैव क्लिष्टा न च कठिना ॥ | ||
कविकोकिल-वाल्मीकि-विरचिता रामायण-रमणीय-कथा । | ||
अतीवसरला मधुरमञ्जुला नै व क्लिष्टा न च कठिना ॥ | ||
व्यासविरचिता गणेशलिखिता महाभारते पुण्यकथा । | ||
कौरव-पाण्डव-सङ्गरमथिता नै व क्लिष्टा न च कठिना ॥ | ||
कुरुक्षेत्र-समराङ्गण-गीता विश्वनदिता भगवद्गीता । | ||
अमृतमधुरा कर्मदीपिका नै व क्लिष्टा न च कठिना ॥ | ||
कविकुलगुरु-नवरसोन्मेषजा ऋतु-रघु-कुमार-कविता । | ||
विक्रम-शाकुन्तल-मालविका नैव क्लिष्टा न च कठिना ॥ | ||
- श्री वसन्त गाङ्गीलः |
No comments:
Post a Comment